logo MP3
head_logo

Pujya Bhaishree Rameshbhai Ojha Shree Shiv Manas Pooja Скачать

main img

Pujya Bhaishree Rameshbhai Ojha

Shree Shiv Manas Pooja

78 Прослушиваний
05:35
Все треки Pujya Bhaishree Rameshbhai Ojha
Слушать
Скачать песню

Текст песни

।।श्री शिव मानस पूजा ।।
रत्नैः कल्पितमासनं हिमजलैः
स्नानं च दिव्याम्बरं
नानारत्नविभूषितं मृगमदा
मोदाङ्कितं चन्दनम् ।
जाती चम्पक बिल्वपत्ररचितं
पुष्पं च धूपं तथा
दीपं देव दयानिधे पशुपते
हृत्कल्पितं गृह्यताम् ॥१॥

सौवर्णे नवरत्न खण्ड रचिते
पात्रे घृतं पायसं
भक्ष्यं पञ्चविधं पयोदधियुतं
रम्भाफलं पानकम् ।
शाकानामयुतं जलं रुचिकरं
कर्पूरखण्डोज्ज्वलं
ताम्बूलं मनसा मया विरचितं
भक्त्या प्रभो स्वीकुरु ॥ २॥

छत्रं चामरयोर्युगं व्यजनकं
चादर्शकं निर्मलं
वीणा भेरि मृदङ्गकाहलकला
गीतं च नृत्यं तथा ।
साष्टाङ्गं प्रणतिः स्तुतिर्बहुविधा
ह्येतत्समस्तं मया
सङ्कल्पेन समर्पितं तव विभो
पूजां गृहाण प्रभो ॥ ३॥

आत्मा त्वं गिरिजा मतिः सहचराः
प्राणाः शरीरं गृहं
पूजा ते विषयोपभोगरचना
निद्रा समाधिस्थितिः ।
सञ्चारः पदयोः प्रदक्षिणविधिः
स्तोत्राणि सर्वा गिरो
यद्यत्कर्म करोमि तत्तदखिलं
शम्भो तवाराधनम् ॥४॥

करचरण कृतं वाक्कायजं कर्मजं वा ।
श्रवणनयनजं वा मानसं वापराधम् ।
विहितमविहितं वा सर्वमेतत्क्षमस्व ।
जय जय करुणाब्धे श्री महादेव शम्भो ॥ ५॥

॥ इति श्रीमच्छङ्कराचार्यविरचिता शिवमानसपूजा समाप्ता ॥

На странице доступен трек Shree Shiv Manas Pooja от Pujya Bhaishree Rameshbhai Ojha. Слушайте онлайн или загрузите в один клик бесплатно на свое устройство.